रजश्शब्दस्य राजसे कर्मणि कुतो वृत्तिः ? तत्र आह -
कर्मेति ।
दुःखमेव - दुःखबहुलम् , कथम् इत्थं व्याख्यायते ? तत्र आह -
कारणेति ।
पापमिश्रस्य पुण्यस्य रजोनिमित्तस्य कारणत्वात् तदनुरोधात् फलमिति रजोनिमित्तं यथोक्तं युक्तम् , इत्यर्थः ।
अज्ञानम् अविवेकप्रायं दुःखं तामसाधर्मफलम् , इत्याह -
तथेति
॥ १६ ॥