श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥
अतीतश्लोकार्थस्यैव सङ्क्षेपः उच्यते —

भावानां फलम् उक्त्वा, सात्त्विकादीनां कर्मणां फलम् आह -

अतीतेति ।

सुकृतस्य - शोभनस्य, कृतस्य पुण्यस्य इत्यर्थः । सात्त्विकस्य - अशुद्धिरहितस्य इति यावत् । सात्त्विकं - सत्त्वेन निर्वृत्तं निर्मलं - रजस्तमस्समुद्भवात् मलात् निष्क्रान्तम् ।