श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव
प्रमादमोहौ तमसो भवतोऽज्ञानमेव ॥ १७ ॥
किञ्च गुणेभ्यो भवति —

विहितप्रतिषिद्धज्ञानकर्मणि सत्त्वादीनां लक्षणानि सङ्क्षिप्य दर्शयति -

किञ्चेति ।

ज्ञानं सर्वकरणद्वारकम् । अज्ञानं - विवेकाभावः

॥ १७ ॥