श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ऊर्ध्वं गच्छन्ति सत्त्वस्था
मध्ये तिष्ठन्ति राजसाः
जघन्यगुणवृत्तस्था
अधो गच्छन्ति तामसाः ॥ १८ ॥
किञ्च —

सात्त्विकादिज्ञानकर्मफलानि उक्त्वा, अनुक्तसङ्ग्रहार्थं सामान्येन उपसंहरति -

किं चेति ।

वक्ष्यमाणफलद्वारापि सत्त्वादिज्ञानम् , इत्यर्थः । सत्त्वगुणस्य वृत्तं - शोभनं ज्ञानं कर्म वा, तत्र तिष्ठन्ति इति तथा । राजसाः - रजोगुणनिमित्ते ज्ञाने, कर्मणि वा निरताः

॥ १८ ॥