सम्यग्ज्ञानोक्तिपरं श्लोकं व्याख्यातुं प्रतीकम् आदत्ते -
नान्यमिति ।
सत्त्वादिकार्यविषयस्य गुणशब्दस्य विवक्षितम् अर्थम् आह -
कार्येति ।
विद्यानन्तर्यम् अनुशब्दार्थः ।
अक्षरार्थम् उक्त्वा, पूर्वार्धस्य आर्थिकम् अर्थम् आह -
गुणा एवेेति ।
सर्वावस्थाः, तत्तत्कार्यकरणाकारपरिणताः, इति यावत् । सर्वकर्मणाम् - कायिकवाचिकमानसानां, विहितप्रतिषिद्धानाम् इत्यर्थः ।
परं - व्यतिरिक्तम् । व्यतिरेकमेव स्फोरयति -
गुणेति ।
निर्गुणबह्मात्मानम् , इत्यर्थः । मद्भावं - ब्रह्मात्मताम् , असौै प्राप्नोति । ब्रह्मभावो अस्य अभिव्यज्यते, इत्यर्थः
॥ १९ ॥