श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषुसुखी दुःखी मूढः अहम् अस्मिइत्येवंरूपः यः सङ्गः तत्कारणं पुरुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्य इति समासेन पूर्वाध्याये यत् उक्तम् , तत् इह सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः’ (भ. गी. १४ । ५) इति आरभ्य गुणस्वरूपम् , गुणवृत्तम् , स्ववृत्तेन गुणानां बन्धकत्वम् , गुणवृत्तनिबद्धस्य पुरुषस्य या गतिः, इत्येतत् सर्वं मिथ्याज्ञानमूलं बन्धकारणं विस्तरेण उक्त्वा, अधुना सम्यग्दर्शनान्मोक्षो वक्तव्यः इत्यत आह भगवान्

‘कस्मिन् गुणे ? कथम् ? ’इत्यादिप्रश्नान् प्रत्याख्याय, गुणेभ्यो मोक्षणं कथम् ? इति प्रत्याख्यानार्थं, वृत्तानुवादपूर्वकं मिथ्याज्ञाननिवर्तकं सम्यग्ज्ञानं प्रस्तौति -

पुरुषस्येत्यादिना ।

पुरुषस्य या गतिः, सा च इति शेषः । मोक्षः - गुणेभ्यो विश्लेषपूर्वको ब्रह्मभावः ।