‘कस्मिन् गुणे ? कथम् ? ’इत्यादिप्रश्नान् प्रत्याख्याय, गुणेभ्यो मोक्षणं कथम् ? इति प्रत्याख्यानार्थं, वृत्तानुवादपूर्वकं मिथ्याज्ञाननिवर्तकं सम्यग्ज्ञानं प्रस्तौति -
पुरुषस्येत्यादिना ।
पुरुषस्य या गतिः, सा च इति शेषः । मोक्षः - गुणेभ्यो विश्लेषपूर्वको ब्रह्मभावः ।