श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥
गुणान् एतान् यथोक्तान् अतीत्य जीवन्नेव अतिक्रम्य मायोपाधिभूतान् त्रीन् देही देहसमुद्भवान् देहोत्पत्तिबीजभूतान् जन्ममृत्युजरादुःखैः जन्म मृत्युश्च जरा दुःखानि जन्ममृत्युजरादुःखानि तैः जीवन्नेव विमुक्तः सन् विद्वान् अमृतम् अश्नुते, एवं मद्भावम् अधिगच्छति इत्यर्थः ॥ २० ॥

यथोक्तान् इत्येतदेव व्याचष्ठे -

मायेति ।

माया एव उपाधिः, तद्भूतान् - तदात्मनः सत्त्वादीन् अनर्थरूपान् , इत्यर्थः ।

एभ्यः समुद्भवन्ति समुद्भवाः देहस्य समुद्भवाः, तान् इति व्युत्पत्तिं गृहीत्वा व्याचष्टे -

देहोत्पत्तीति ।

यो विद्वान् अविद्यामयान् गुणान् जीवन्नेव अतिक्रम्य स्थितः, तमेव विशिनष्टि -

जन्मेति ।

पुरस्तात् विस्तरेण उक्तस्य प्रसङ्गात् अत्र सङ्क्षिप्तस्य सम्यग्ज्ञानस्य फलम् उपसंहरति -

एवमिति

॥ २० ॥