श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥
कथम् अधिगच्छति इति, उच्यते —

अनर्थव्रातरूपम् अपोह्य विद्वान् ब्रह्मत्वं प्राप्नोति इत्येतत् प्रश्नद्वारा विवृणोति -

कथमित्यादिना ।