श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
प्रकाशं प्रवृत्तिं मोहमेव पाण्डव
द्वेष्टि सम्प्रवृत्तानि निवृत्तानि काङ्क्षति ॥ २२ ॥
गुणातीतस्य लक्षणं गुणातीतत्वोपायं च अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवान् उवाच । यत् तावत् ‘कैः लिङ्गैः युक्तो गुणातीतो भवति’ इति, तत् शृणु —

प्रश्नस्वरूपम् अनूद्य, तदुत्तरं दर्शयति -

गुणातीतस्येति ।

पृष्टो भगवान् इति सम्बन्धः ।

किं वृत्तस्य त्रिधा प्रयोगदर्शनात् प्रश्नद्वयार्थम् इत्युपलक्षणं प्रश्नत्रयार्थम् इति द्रष्टव्यम् । उत्तरम् अवतार्य, अनन्तरश्लोकतात्पर्यम् आह -

यत्तावदिति ।