विद्वद्दृष्ट्या प्रियाप्रिययोः असम्भवेऽपि लोकदृष्टिम् आश्रित्य आह -
प्रियं चेति ।
प्रियाप्रियग्रहणेन गृहीतानां काञ्चनादीनां ब्राह्मणपरिव्राजकवत् पृथग्ग्रहणम् । निन्दा दोषोक्तिः । आत्मसंस्तुतिः - आत्मनो गुणकीर्तनम्
॥ २४ ॥