श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥
किञ्च —

गुणातीतस्य लिङ्गान्तरम् आह -

किं चेति ।

तयोः समत्वं रागद्वेषानुत्पादकतया । स्वकीयत्वाभिमानानास्पदत्वं प्रसन्नत्वम् । स्वास्थ्यात् अप्रच्युतिः अविक्रियत्वम् ।