श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मां योऽव्यभिचारेण भक्तियोगेन सेवते
गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥
मां ईश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण कदाचित् यो व्यभिचरति भक्तियोगेन भजनं भक्तिः सैव योगः तेन भक्तियोगेन सेवते, सः गुणान् समतीत्य एतान् यथोक्तान् ब्रह्मभूयाय, भवनं भूयः, ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति इत्यर्थः ॥ २६ ॥

मच्छब्दस्य संसारिविषयत्वं व्यावर्तयति -

ईश्वरमिति ।

तत्रैव नारायणशब्दात् मूर्तिभेदो व्यावर्त्यते ।

तस्य ताटस्थ्यं व्यवच्छिनत्ति -

सर्वेति ।

मुख्यामुख्याधिकारिभेदेने विकल्पः । भक्तियोगस्य यादृच्छिकत्वं व्यवच्छेत्तुम् ‘अव्यभिचारेण’ इत्युक्तम् । तद्व्याचष्टे -

नेति ।

भजनं - परमप्रेमा । स एव युज्यते अनेन इति योगः । सेवते - पराक्चित्ततां विना सदा अनुसन्दधाति, इत्यर्थः । सः भगवदनुग्रहकृतसम्यग्धीसम्पन्नो विद्वान् जीवन्नेव इत्यर्थः

॥ २६ ॥