श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य
शाश्वतस्य धर्मस्य सुखस्यैकान्तिकस्य ॥ २७ ॥
ब्रह्मणः परमात्मनः हि यस्मात् प्रतिष्ठा अहं प्रतितिष्ठति अस्मिन् इति प्रतिष्ठा अहं प्रत्यगात्माकीदृशस्य ब्रह्मणः ? अमृतस्य अविनाशिनः अव्ययस्य अविकारिणः शाश्वतस्य नित्यस्य धर्मस्य धर्मज्ञानस्य ज्ञानयोगधर्मप्राप्यस्य सुखस्य आनन्दरूपस्य ऐकान्तिकस्य अव्यभिचारिणः अमृतादिस्वभावस्य परमानन्दरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा, सम्यग्ज्ञानेन परमात्मतया निश्चीयतेतदेतत् ब्रह्मभूयाय कल्पते’ (भ. गी. १४ । २६) इति उक्तम्यया ईश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिः ब्रह्मैव अहम् , शक्तिशक्तिमतोः अनन्यत्वात् इत्यभिप्रायःअथवा, ब्रह्मशब्दवाच्यत्वात् सविकल्पकं ब्रह्मतस्य ब्रह्मणो निर्विकल्पकः अहमेव नान्यः प्रतिष्ठा आश्रयःकिंविशिष्टस्य ? अमृतस्य अमरणधर्मकस्य अव्ययस्य व्ययरहितस्यकिञ्च, शाश्वतस्य नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य सुखस्य तज्जनितस्य ऐकान्तिकस्य एकान्तनियतस्य , ‘प्रतिष्ठा अहम्इति वर्तते ॥ २७ ॥

ब्रह्मशब्दस्य असति बाधके मुख्यार्थदग्रणम् अभिप्रेत्य आह -

परमात्मन इति ।

तं प्रति प्रत्यगात्मनो यत् प्रतिष्ठात्वं तत् उपपादयति -

प्रतितिष्ठतीति ।

यत् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति, तत् किंविशेषणम् इत्यपेक्षायाम् उक्तम् -

अमृतस्येत्यादि ।

तत्र अमृतशब्देन अव्ययशब्दस्य पुनरुक्तिं परिहरति -

अविकारिण इति ।

नित्यत्वम् - अपक्षयराहित्यम् । तेन पूर्वाभ्याम् अपौनरुक्त्यम् ।

प्रसिद्धार्थस्य धर्मशब्दस्य ब्रह्मणि अनुपपत्तिम् आशङ्क्य, आह -

ज्ञानेति ।

अथ इन्द्रियसम्बन्धोत्थं सुखं व्यावर्तयितुम् ‘ऐकान्तिकस्य’ इत्युक्तम् । अक्षरार्थम् उक्त्वा, वाक्यार्थम् आह -

अमृतादीति ।

प्रतिष्ठा यस्मात् इति पूर्वेण सम्बन्धः । तस्मात् प्रत्यगात्मा परमात्मतया निश्चीयते सम्यग्ज्ञानेन, इति योजना ।

अस्य श्लोकस्य, पूर्वश्लोकेन एकवाक्याताम् आह -

तदेतदिति ।

विवक्षितं वाक्यार्थं प्रपञ्चयति -

ययेति ।

सा शक्तिः ब्रह्मैव, इति कथं सामानाधिकरण्यम् ? तत्र आह -

शक्तीति ।

व्याख्यान्तरम् आह -

अथवेति ।

विशेषणानि पूर्ववत् अपौनरुक्त्यानि नेतव्यानि । तदनेन अध्यायेन क्षेत्रक्षेत्रज्ञसंयोगस्य संसारकारणत्वं पञ्चप्रश्ननिरूपणद्वारेण च सम्यग्ज्ञानस्य सकलसंसारनिवर्तकत्वम् , इत्येतत् उपपादयता मुमुक्षोः यत्नसाध्यं गुणैः अचाल्यत्वादि मुक्तस्य अयत्नसिद्धं लक्षणम् इति निर्धारितम्

॥ २७ ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने चतुर्दशोऽध्यायः

॥ १४ ॥