श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्
छन्दांसि यस्य पर्णानि यस्तं वेद वेदवित् ॥ १ ॥
अव्यक्तमूलप्रभवस्तस्यैवानुग्रहोच्छ्रितःबुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः
महाभूतविशाखश्च विषयैः पत्रवांस्तथाधर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनःएतद्ब्रह्मवनं चैव ब्रह्माचरति नित्यशः
एतच्छित्त्वा भित्त्वा ज्ञानेन परमासिनाततश्चात्मरतिं प्राप्य तस्मान्नावर्तते पुनः ॥ ’इत्यादितम् ऊर्ध्वमूलं संसारं मायामयं वृक्षम् अधःशाखं महदहङ्कारतन्मात्रादयः शाखा इव अस्य अधः भवन्तीति सोऽयं अधःशाखः, तम् अधःशाखम् श्वोऽपि स्थाता इति अश्वत्थः तं क्षणप्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्ति

अव्यक्तं - अव्याकृतं, तदेव मूलं, तस्मात् प्रभवनं - प्रभवः यस्य, स तथा । तस्यैव मूलस्य अव्यक्तस्य अनुग्रहात् - अतिदृढत्वात् ,उत्थितः - संवर्धितः । तस्य लौकिकवृक्षसाधर्म्यम् आह -

बुद्धीत्यादिना ।

वृक्षस्य हि शाखाः स्कन्धात् उद्भवन्ति, संसारस्य च बुद्धेः सकाशात् नानापरिणामा जायन्ते । तेन बुद्धिरेव स्कन्धः तन्मयः - तत्प्रचुरः, अयं संसारतरुः । इन्द्रियाणामन्तराणि - छिद्राणि कोटराणि यस्य, स तथा । महान्ति भूतानि - पृथिव्यादीनि आकाशान्तानि, विशाखाः स्तम्भा यस्य स तथा । आजीव्यत्वं उपजीव्यत्वम् । ब्रह्मणा अधिष्ठितो वृक्षः ब्रह्मवृक्षः ॥ तथापि ज्ञानं विना छेत्तुं अशक्यतया सनातनः - चिरन्तनः एतच्च ब्रह्मणः परस्य आत्मनः, वनं - वननीयं, सम्भजनीयम् । अत्र हि ब्रह्म प्रतिष्ठितम् , तस्य वृक्षस्य संसाराख्यस्य तदेव ब्रह्म सारभूतम् ।अथवा अस्य ब्रह्मवृक्षस्य अनवच्छिन्नस्य संसारमण्डलस्य तदेतत् ब्रह्म, वनमिव वनं - वननीयं - सम्भजनीयम् । न हि ब्रह्मातिरिक्तं संसारस्य आस्पदम् अस्ति  ब्रह्मैव अविद्यया संसराति इति अभ्युपगमात् इत्यर्थः ।

“अहं ब्रह्म“ इति दृढज्ञानेन उक्तं संसारवृक्षं छित्वा प्रतिबन्धकाभावात् आत्मनिष्ठो भूत्वा, पुनरावृत्तिरहितं कैवल्यं प्राप्नोति, इत्याह -

एतदिति ।

अधःशाखम् , इत्येतद् व्याचष्टे -

महदिति ।

आदिशब्देन इन्द्रियादिसङ्ग्रहः ।

संसारवृक्षस्य अतिचञ्चलत्वे प्रमाणमाह -

प्राहुरिति ।