क्षणध्वंसिनः अव्ययत्वं विरुद्धम् इत्याशङ्क्य, आह -
संसारेति ।
तदेवोपपादयति -
अनादीति ।
छादनं - रक्षणम् , प्रावरणं वा । कर्मकाण्डानि खलु आरोहावरोहफलानि नानाविधार्थवादयुक्तानि संसारवृक्षं रक्षन्ति, तन्निष्ठं दोषं च आवृण्वन्ति । ते तानि छन्दांसि पर्णानीव भवन्ति इति अर्थः ।
तदेव प्रपञ्चयति -
यथेति ।
उक्तेऽर्थे हेतुमाह -
धर्मेति ।
कर्मकाण्डानां वेदानां इति शेषः ।
कर्मब्रह्माख्यसर्ववेदार्थस्य तत्र अन्तर्भावम् उपेत्य व्याचष्टे -
वेदार्थेति ।
समूलसंसारवृक्षज्ञाने अमूलं हित्वा मूलमेव निष्कृष्य ज्ञातुं शक्यमिति तज्ज्ञानार्थं प्रयतितव्यं इति मत्वा तज्ज्ञानस्तुतिः अत्र विवक्षिता इत्याह -
न हीति
॥ १ ॥