भक्तियोगेन गुणात्यये दर्शिते, नाशित्वे तेषां,विना ज्ञानेन अनत्ययात् अनाशित्वेन,तेनापि तदयोग्यत्वात् न ज्ञानं गुणात्ययहेतुः इति आशङ्कां निरस्य, साक्षादेव श्रवणादिहेतुं संन्यासं विधित्सुः ब्रह्मत्वस्य परमपुरुषार्थतां विवक्षुः अध्यायान्तरमारभते -
यस्मादिति ।
कर्मिणो ज्ञानिनश्च शास्त्रे अधिकृताः । तत्र कर्मिणां कर्मानुकूलं फलं ईश्वरायत्तम् , “फलमत उपपत्तेः“ (ब्र. सू. ३ - २ - ३७) इति न्यायात् । ज्ञानिनामपि तत् फलम् ईश्वरायत्तमेव, “ततो ह्यस्य बन्धविपर्ययौ “ (ब्र. सू.३ - २ - ५) इत्युक्तत्वात् । यस्मात् एवं, तस्मात् , ये भक्त्याख्येन योगेन मामेव सेवंते, ते मत्प्रसादद्वारा ज्ञानं प्राप्य तेन गुणातीताः मुक्ताः भवन्तीति स्थितम् , इत्यर्थः ।
ये तु आत्मनः तत्त्वमेव सन्देहाद्यपोहेन जानन्ति ते तेन ज्ञानेन गुणातीताः सन्तः मुक्तिं गच्छन्तीति किमु वक्तव्यम् , इति अर्थसिद्धमर्थम् आह -
किमुवक्तव्यमिति ।
आत्मतत्त्वाज्ञानं यतः संसारहेतुः, ज्ञानं मोक्षानुुकूलम् , अतः अर्जुनेन किं तत् ? इति अपृष्टमपि तत्त्वं भगवान् उक्तवान् , प्रश्नाभावेऽपि तस्य तद्व्युत्पादनाभिमानात् इत्याह -
अत इति ।
तत्त्वे विवक्षिते किमिति संसारो वर्ण्यते ? तत्र आह -
तत्रेति ।
अध्यायादिः सप्तम्यर्थः ।
वैराग्यमपि किमिति मृग्यते? तत्र आह -
विरक्तस्येति ।
इति वैराग्याय संसारवर्णनम् , इति शेषः ।