श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
अधः मनुष्यादिभ्यो यावत् स्थावरम् ऊर्ध्वं यावत् ब्रह्मणः विश्वसृजो धाम इत्येतदन्तं यथाकर्म यथाश्रुतं ज्ञानकर्मफलानि, तस्य वृक्षस्य शाखा इव शाखाः प्रसृताः प्रगताः, गुणप्रवृद्धाः गुणैः सत्त्वरजस्तमोभिः प्रवृद्धाः स्थूलीकृताः उपादानभूतैः, विषयप्रवालाः विषयाः शब्दादयः प्रवालाः इव देहादिकर्मफलेभ्यः शाखाभ्यः अङ्कुरीभवन्तीव, तेन विषयप्रवालाः शाखाःसंसारवृक्षस्य परममूलं उपादानकारणं पूर्वम् उक्तम्अथ इदानीं कर्मफलजनितरागद्वेषादिवासनाः मूलानीव धर्माधर्मप्रवृत्तिकारणानि अवान्तरभावीनि तानि अधश्च देवाद्यपेक्षया मूलानि अनुसन्ततानि अनुप्रविष्टानि कर्मानुबन्धीनि कर्म धर्माधर्मलक्षणम् अनुबन्धः पश्चाद्भावि, येषाम् उद्भूतिम् अनु उद्भवति, तानि कर्मानुबन्धीनि मनुष्यलोके विशेषतःअत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः ॥ २ ॥

अवयवसम्बन्धिनी अपरा - प्रागुक्तात् अतिरिक्ता कल्पना इति यावत् । आमनुष्यलोकात्आविरिञ्चेेः इति अधश्शब्दार्थमाह -

मनुष्यादिभ्य इति ।

तस्मादेव आरभ्य आसत्यलोकात् इति ऊर्ध्वशब्दार्थम् आह -

यावदिति ।

शाखाशब्दार्थं दर्शयति -

ज्ञानेति ।

तेषां हेत्वनुगुणत्वेन बहुविधत्वं सूचयति -

यथेति ।

प्रत्यक्षाणां शब्दादिविषयाणां प्रवालत्वं शाखासु पल्लवत्वम् । अङ्कुरत्वं स्फोरयति -

देहादीति ।

“ऊर्ध्वमूलम्“ इत्यत्र संसारवृक्षस्य मूलमुक्तं, किमिदानीम् “अधश्च मूलानि“ इति उच्यते ? तत्र आह -

संसारेति ।

अनुप्रविष्टत्वम् - सर्वेषु लिङ्गेषु अनुगततया सन्ततत्वम् , अविच्छिन्नत्वम् ।

रागादीनां कर्मफलजन्यत्वं प्रकटयति -

कर्मेति ।

कर्मणां रागादीनां मिथो हेतुहेतुमत्त्वम् । तेषां तथात्वेनअनवच्छिन्नतया प्रवृत्तिः विशेषतो मनुष्यलोेके भवति इत्यत्र हेतुमाह -

अत्र हीति ।

कर्मव्युत्पत्त्या प्राणिनिकायो लोकः । मनुष्यश्चासौ लोकश्च इति अधिकृतो ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकः

॥ २ ॥