श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रूपमस्येह तथोपलभ्यते नान्तो चादिर्न सम्प्रतिष्ठा
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥
न रूपम् अस्य इह यथा उपवर्णितं तथा नैव उपलभ्यते, स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वात् ; दृष्टनष्टस्वरूपो हि स इति अत एव न अन्तः न पर्यन्तः निष्ठा परिसमाप्तिर्वा विद्यते । तथा न च आदिः, ‘इतः आरभ्य अयं प्रवृत्तः’ इति न केनचित् गम्यते । न च सम्प्रतिष्ठा स्थितिः मध्यम् अस्य न केनचित् उपलभ्यते । अश्वत्थम् एनं यथोक्तं सुविरूढमूलं सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तम् एनं सुविरूढमूलम् , असङ्गशस्त्रेण असङ्गः पुत्रवित्तलोकैषणाभ्यः व्युत्थानं तेन असङ्गशस्त्रेण दृढेन परमात्माभिमुख्यनिश्चयदृढीकृतेन पुनः पुनः विवेकाभ्यासाश्मनिशितेन च्छित्वा संसारवृक्षं सबीजम् उद्धृत्य ॥ ३ ॥

यथा पूर्वं वर्णितं, यथा च लोके प्रसिद्धम् तथा अस्य रूपमिह शास्त्रात् अनुमीयते । तथा च अस्य ज्ञानापनोद्यत्वं युक्तम् इत्याह -

यथेति ।

तस्य अप्रमितत्वे हेतुं आह -

स्वप्नेति ।

तस्य स्वप्नदिसमत्वे दृष्टनष्टस्वरूपत्वं हेतुं करोति -

दृष्टेति ।

इति अमेयता इति शेषः ।

तमेव अमेयत्वं हेतुं कृत्वा अवसानमपि तस्य न भाति इत्याह -

अत एवेति ।

ज्ञानं विना भ्रान्तिवासनाकर्मणाम् अन्योन्यनिमित्तत्वात् न अवसानमस्ति इत्यर्थः ।

इदम्प्रथमत्वमपि नास्य परिच्छेत्तुं शक्यम् इत्याह -

तथेति ।

आद्यन्तवत् मध्यमपि नास्य प्रामाणिकम् इत्याह -

मध्यमिति ।

संसारवृक्षस्य अश्वत्थशब्दितस्य क्षणभङ्गुरस्य स्वयमेव उच्छेदसम्भवात् तदुच्छेदार्थं न प्रयतितव्यम् , इत्याशङ्क्य आह -

अश्वत्थमिति ।

व्युत्थानं - वैराग्यपूर्वकं पारिव्राज्यम् । दृढीकृतत्वमेव विवेकपूर्वकत्वेन स्फुटयति -

पुनः पुनरिति

॥ ३ ॥