यथा पूर्वं वर्णितं, यथा च लोके प्रसिद्धम् तथा अस्य रूपमिह शास्त्रात् अनुमीयते । तथा च अस्य ज्ञानापनोद्यत्वं युक्तम् इत्याह -
यथेति ।
तस्य अप्रमितत्वे हेतुं आह -
स्वप्नेति ।
तस्य स्वप्नदिसमत्वे दृष्टनष्टस्वरूपत्वं हेतुं करोति -
दृष्टेति ।
इति अमेयता इति शेषः ।
तमेव अमेयत्वं हेतुं कृत्वा अवसानमपि तस्य न भाति इत्याह -
अत एवेति ।
ज्ञानं विना भ्रान्तिवासनाकर्मणाम् अन्योन्यनिमित्तत्वात् न अवसानमस्ति इत्यर्थः ।
इदम्प्रथमत्वमपि नास्य परिच्छेत्तुं शक्यम् इत्याह -
तथेति ।
आद्यन्तवत् मध्यमपि नास्य प्रामाणिकम् इत्याह -
मध्यमिति ।
संसारवृक्षस्य अश्वत्थशब्दितस्य क्षणभङ्गुरस्य स्वयमेव उच्छेदसम्भवात् तदुच्छेदार्थं न प्रयतितव्यम् , इत्याशङ्क्य आह -
अश्वत्थमिति ।
व्युत्थानं - वैराग्यपूर्वकं पारिव्राज्यम् । दृढीकृतत्वमेव विवेकपूर्वकत्वेन स्फुटयति -
पुनः पुनरिति
॥ ३ ॥