श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ५ ॥
कथम्भूताः तत् पदं गच्छन्तीति, उच्यते —

परिमार्गणपूर्वकं वैष्णवं पदं गच्छताम् अङ्गान्तराणि आकाङ्क्षापूर्वकं कथयति -

कथमित्यादिना ।

मानः - अहङ्कारः, मोहस्तु अविवेकः, जितसङ्गदोषाः - शत्रुमित्रसन्निधावपि द्वेषप्रीतिवर्जिताः इत्यर्थः । तत्परत्वं - श्रवणादिनिष्ठत्वम् । संन्यासिनः - वैराग्यद्वारा त्यक्तसर्वकर्माण इत्यर्थः । आदिशब्देन तद्धेतुपरिग्रहः ।मोहवर्जितत्वं - उक्तहेतुतः सञ्जातसम्यग्धीत्वम्

॥ ५ ॥