श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ममैवांशो जीवलोके जीवभूतः सनातनः
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥
यत् गत्वा न निवर्तन्ते इत्युक्तम्ननु सर्वा हि गतिः आगत्यन्ता, ‘संयोगाः विप्रयोगान्ताः’ इति प्रसिद्धम् । कथम् उच्यते ‘तत् धाम गतानां नास्ति निवृत्तिः’ इति ? शृणु तत्र कारणम् —

उक्तमनूद्य आक्षिपति -

यद्गत्वेति ।

तत्र प्रसिद्धिं प्रमाणयति -

संयोगा इति ।

गमनस्य आगमनान्तत्वप्रसिद्धेः अयुक्तंयद्गत्वेत्यादि, इत्युपसंहरति -

कथमिति ।

आक्षेपं परिहरति -

श्रृण्विति ।

भगवत्प्राप्तेः निवृत्यन्तत्वाभावःसप्तम्यर्थः ।