श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥
यच्चापि यदा चापि उत्क्रामति ईश्वरः देहादिसङ्घातस्वामी जीवः, तदाकर्षतिइति श्लोकस्य द्वितीयपादः अर्थवशात् प्राथम्येन सम्बध्यतेयदा पूर्वस्मात् शरीरात् शरीरान्तरम् अवाप्नोति तदा गृहीत्वा एतानि मनःषष्ठानि इन्द्रियाणि संयाति सम्यक् याति गच्छतिकिमिव इति, आहवायुः पवनः गन्धानिव आशयात् पुष्पादेः ॥ ८ ॥

जीवस्य उत्क्रान्तिः न ईश्वरस्य इत्याशङ्क्य, ईश्वरशब्दार्थमाह -

देहादीति ।

उत्क्रान्त्यनन्तरभाविनी गतिः इत्येतत् अर्थवशात् इत्युक्तम् ।

अवशिष्टानि श्लोकाक्षराणि आचष्टे -

यदाचेति

॥ ८ ॥