श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥
कस्मिन् काले ? —

स्वस्थाने स्थितानां इन्द्रियाणां जीवेन आकर्षणस्य कालं पृच्छति -

कस्मिन्निति ।