श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥
केचित्तु —

ज्ञानचक्षुश्शब्देन न्यायानुगृहीतं शास्त्रं ज्ञानसाधनमुक्तम् । तत् किं इदानीं शास्त्रमात्रेण न्यायानुगृहीतेन आत्मानं पश्यन्ति? नेत्याह -

केचित्विति ।

प्रयत्नः - श्रवणमननात्मकः । शास्त्रादिप्रमाणैः यतन्तोऽपि, इति सम्बन्धः ।