श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥
यत् आदित्यगतम् आदित्याश्रयम् । किं तत् ? तेजः दीप्तिः प्रकाशः जगत् भासयते प्रकाशयति अखिलं समस्तम् ; यत् चन्द्रमसि शशभृति तेजः अवभासकं वर्तते, यच्च अग्नौ हुतवहे, तत् तेजः विद्धि विजानीहि मामकं मदीयं मम विष्णोः तत् ज्योतिः । अथवा, आदित्यगतं तेजः चैतन्यात्मकं ज्योतिः, यच्चन्द्रमसि, यच्च अग्नौ वर्तते तत् तेजः विद्धि मामकं मदीयं मम विष्णोः तत् ज्योतिः ॥

जीवात्मत्वे न चिद्रूपत्वं उक्त्वा तदीयचैतन्येन आदित्यादीनां अवभासकत्वाच्च ब्रह्मणः चिद्रूपत्वं इत्याह -

यदादित्येति ।

चिद्रूपस्यैव ब्रह्मणः सर्वात्मकत्वप्रतिपादकत्वेन श्लोकं व्याचष्टे -

यदित्यादिना ।

आदित्यादौ तत्र तत्र स्थितं ब्रह्मचैतन्यज्योतिः सर्वावभासकं इत्यर्थः ।

ब्रह्मण सर्वज्ञत्वेन चिद्रूपत्वं अत्र विवक्षितम् , इति व्याख्यान्तरं आह -

अथवेति ।