चैतन्यज्योतिषः सर्वत्र अविशेषात् आदित्यादिगतत्वविशेषणं अयुक्तमिति शङ्कते -
नन्विति ।
सर्वत्र सत्वेऽपि क्वचिदेव अभिव्यक्तिविशेषात् विशेषणमिति परिहरति -
नैष दोष इति ।
तदेव प्रपञ्चयति -
आदित्यादिष्विति ।
सर्वत्र चैतन्यज्योतिषः तुल्यत्वेऽपि क्वचिदेव अभिव्यक्त्या विशेषणोपपत्तिं दृष्टान्तेन स्पष्टयति -
यथाहीति
॥ १२ ॥