श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥
यत् पदं सर्वस्य अवभासकमपि अग्न्यादित्यादिकं ज्योतिः न अवभासयते, यत् प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते, यस्य च पदस्य उपाधिभेदम् अनुविधीयमानाः जीवाः — घटाकाशादयः इव आकाशस्य — अंशाः, तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवक्षुः चतुर्भिः श्लोकैः विभूतिसङ्क्षेपमाह भगवान् —

अनन्तरश्लोकचतुष्टयस्य वृ्त्तानुवादद्वारा तात्पर्यार्थमाह -

यत्पदमिति ।