श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
गामाविश्य भूतानि
धारयाम्यहमोजसा
पुष्णामि चौषधीः सर्वाः
सोमो भूत्वा रसात्मकः ॥ १३ ॥
गां पृथिवीम् आविश्य प्रविश्य धारयामि भूतानि जगत् अहम् ओजसा बलेन ; यत् बलं कामरागविवर्जितम् ऐश्वरं रूपं जगद्विधारणाय पृथिव्याम् आविष्टं येन पृथिवी गुर्वी न अधः पतति न विदीर्यते च । तथा च मन्त्रवर्णः — ‘येन द्यौरुग्रा पृथिवी च दृढा’ (तै. सं. ४ । १ । ८) इति, ‘स दाधार पृथिवीम्’ (तै. सं. ४ । १ । ८) इत्यादिश्च । अतः गामाविश्य च भूतानि चराचराणि धारयामि इति युक्तमुक्तम् । किञ्च, पृथिव्यां जाताः ओषधीः सर्वाः व्रीहियवाद्याः पुष्णामि पुष्टिमतीः रसस्वादुमतीश्च करोमि सोमो भूत्वा रसात्मकः सोमः सन् रसात्मकः रसस्वभावः । सर्वरसानाम् आकरः सोमः । स हि सर्वरसात्मकः सर्वाः ओषधीः स्वात्मरसान् अनुप्रवेशयन् पुष्णाति ॥ १३ ॥

ईश्वरो हि पृथिवीदेवतारूपेण पृथिवीं प्रविश्य भूतशब्दितं जगत् ऐश्वरेणैव बलेन बिभर्ति । ततो गुर्वी अपि पृथिवी विदीर्य न अधो निपतति इत्यत्र प्रमाणमाह -

तथा चेति ।

परस्यैव हिरण्यगर्भात्मना अवस्थानात् न मन्त्रयोः अन्यपरता इति भावः । देवतात्मना द्यावापृथिव्योः उग्रत्वम् उद्धरणसामर्थ्यम् , तथापि ईश्वरायत्तमेव स्वरूपधारणं, तदपेक्षया दुर्बलत्वात् इति द्रष्टव्यम् ।

ईश्वरस्य सर्वात्मत्वे हेत्वन्तरमाह -

किञ्चेति ।

रसात्मकसोमरूपतापत्तावपि, कथं ओषधीः ईश्वरः सर्वाः पुष्णाति? इत्याशङ्क्य आह -

सर्वेति

॥ १३ ॥