ईश्वरो हि पृथिवीदेवतारूपेण पृथिवीं प्रविश्य भूतशब्दितं जगत् ऐश्वरेणैव बलेन बिभर्ति । ततो गुर्वी अपि पृथिवी विदीर्य न अधो निपतति इत्यत्र प्रमाणमाह -
तथा चेति ।
परस्यैव हिरण्यगर्भात्मना अवस्थानात् न मन्त्रयोः अन्यपरता इति भावः । देवतात्मना द्यावापृथिव्योः उग्रत्वम् उद्धरणसामर्थ्यम् , तथापि ईश्वरायत्तमेव स्वरूपधारणं, तदपेक्षया दुर्बलत्वात् इति द्रष्टव्यम् ।
ईश्वरस्य सर्वात्मत्वे हेत्वन्तरमाह -
किञ्चेति ।
रसात्मकसोमरूपतापत्तावपि, कथं ओषधीः ईश्वरः सर्वाः पुष्णाति? इत्याशङ्क्य आह -
सर्वेति
॥ १३ ॥