परस्यैव जाठरात्मना स्थितौ श्रुतिं प्रमाणयति -
अयमिति ।
बाह्यं भौमं अग्निं व्यावर्तयति -
योऽयमिति ।
देहान्तरारम्भकं तृतीयं भूतं व्यवच्छिनत्ति -
येनेति ।
जाठरात्मना परः स्थितश्चेत् तस्य देहाश्रितत्वं सिद्धम् इति न पृथक् वक्तव्यम् इत्याशङ्क्य, “पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद“ इति श्रुतिमाश्रित्य आह -
प्रविष्ट इति ।
परस्य जाठरात्मनः अन्नपाके सहकारिकारणमाह -
प्राणेति ।
संयुक्तत्वं - सन्धुक्षितत्वम् । अन्नस्य चातुर्विध्यं प्रकटयति -
भोज्यमिति ।
भोक्तरि वैश्वानरदृष्टिः, भोज्ये सोमदृष्टिः एवं भोक्तृभोज्यरूपं सर्वं जगत् अग्नीषोमात्मना भुक्तिकाले ध्यायतो भोक्तुः अन्नकृतो दोषो न इति प्रासङ्गिकं सफलं ध्यानं दर्शयति -
भोक्तेति
॥ १४ ॥