प्राणिनां स्मृतिज्ञानयोः तदुपायस्य च भगवदधीनत्वे भगवतो वैषम्यं स्यात् इत्याशङ्क्याह -
येषामिति ।
स्मृतिः जन्मान्तरादौ अनुभूतस्य परामर्शः । देशकालस्वभावविप्रकृष्टस्यापि ज्ञानम् अनुभवः । धर्माधर्माभ्यां विचित्रं कुर्वतः न ईश्वरस्य वैषम्यम् इति भावः ।
वेदवेद्यं परं ब्रह्म भगवतः अन्यदिति शङ्कां वारयति -
वेदैरिति ।
वेदान्तानां पौरुषेयत्वं परिहरति -
वेदेति ।
तदर्थसम्प्रदायप्रवर्तकत्वार्थं तदर्थयाथातथ्यज्ञानवत्वमाह -
वेदार्थेति
॥ १५ ॥