श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥
द्वौ इमौ पृथग्राशीकृतौ पुरुषौ इति उच्येते लोके संसारेक्षरश्च क्षरतीति क्षरः विनाशी इति एको राशिः ; अपरः पुरुषः अक्षरः तद्विपरीतः, भगवतः मायाशक्तिः, क्षराख्यस्य पुरुषस्य उत्पत्तिबीजम् अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयः, अक्षरः पुरुषः उच्यतेकौ तौ पुरुषौ इति आह स्वयमेव भगवान्क्षरः सर्वाणि भूतानि, समस्तं विकारजातम् इत्यर्थःकूटस्थः कूटः राशी राशिरिव स्थितःअथवा, कूटः माया वञ्चना जिह्मता कुटिलता इति पर्यायाः, अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः, संसारबीजानन्त्यात् क्षरति इति अक्षरः उच्यते ॥ १६ ॥

क्षराक्षरोपाधिभ्यां परमात्मना चराशित्रयम् । उक्तेन सर्वात्मत्वेन अशुद्ध्यादिदोषप्रसक्तौ उक्तम् -

द्वाविमाविति ।

पुरुषोपाधित्वात् पुरुषत्वं न साक्षात् इति विवक्षितत्वात् आह -

पुरुषाविति ।

परं पुरुषं व्यावर्तयति -

भगवत इति ।

तत्र कार्यलिङ्गकम् अनुमानं सूचयति -

क्षराख्यस्येति ।

मायाशक्तिं विना भोक्तॄणां कर्मादिसंस्कारादेव उक्तकार्योत्पत्तिः इत्याशङ्क्य, तस्य निमित्तत्वेऽपि मायाशक्तिः उपादानम् इति मत्वा आह -

अनेकेति ।

कामकर्मादीति आदिशब्देन ज्ञानं गृह्यते ।

प्रकृतिं पुरुषं चैवेति प्रकृतयोः इह ग्रहणम् इति शङ्काम् आकाङ्क्षाद्वारा वारयति -

कौ ताविति ।

कूटशब्दार्थमुक्त्वा तेन स्थितस्य कूटस्थतेति सम्पिण्डितार्थमाह -

अनेकेति ।

तस्य कथम् अक्षरत्वं विना ब्रह्मज्ञानं अनाशादित्याह -

संसारेति

॥ १६ ॥