श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥
भगवतः ईश्वरस्य नारायणाख्यस्य विभूतिसङ्क्षेपः उक्तः विशिष्टोपाधिकृतः ‘यदादित्यगतं तेजः’ (भ. गी. १५ । १२) इत्यादिना । अथ अधुना तस्यैव क्षराक्षरोपाधिप्रविभक्ततया निरुपाधिकस्य केवलस्य स्वरूपनिर्दिधारयिषया उत्तरे श्लोकाः आरभ्यन्ते । तत्र सर्वमेव अतीतानागताध्यायार्थजातं त्रिधा राशीकृत्य आह —

उत्तरश्लोकानां तात्पर्यं वक्तुं वृत्तं कीर्तयति -

भगवत इति ।

विशिष्टोपाधिः आदित्यादिः ।

सम्प्रति अध्यायसमप्तेः उत्तरसन्दर्भस्य तात्पर्यमाह -

अथेति ।

न केवलं निरुपाधिकात्मस्वरूपनिर्धारणाय उत्तरग्रन्थः, किन्तु सर्वस्यैव गीताशास्त्रस्य अर्थनिर्णयार्थमित्याह -

तत्रेति ।