श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥
उत्तमः उत्कृष्टतमः पुरुषस्तु अन्यः अत्यन्तविलक्षणः आभ्यां परमात्मा इति परमश्च असौ देहाद्यविद्याकृतात्मभ्यः, आत्मा च सर्वभूतानां प्रत्यक्चेतनः, इत्यतः परमात्मा इति उदाहृतः उक्तः वेदान्तेषु । स एव विशिष्यते यः लोकत्रयं भूर्भुवःस्वराख्यं स्वकीयया चैतन्यबलशक्त्या आविश्य प्रविश्य बिभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयति ; अव्ययः न अस्य व्ययः विद्यते इति अव्ययः । कः ? ईश्वरः सर्वज्ञः नारायणाख्यः ईशनशीलः ॥ १७ ॥

जडवर्गस्य अन्यत्वकृतं स्वातन्त्र्यं निरस्यति -

स एवेति ।

लोकत्रयं इति उपलक्षणम् , सर्वं जगदपि विवक्षितम् । चैतन्यमेव बलं तत्र - शक्तिः - माया  तयेति यावत् ।

जगद्धारणे परस्य व्यापारान्तरं वारयति -

स्वरूपेति ।

न च अस्य अन्यो धारयिता, स्वतः अचलत्वात् इत्याह -

अव्यय इति ।

“संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः“ इति श्रुत्यर्थं गृहीत्वा आह -

ईश्वर इति

॥ १७ ॥