श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥
उत्तमः उत्कृष्टतमः पुरुषस्तु अन्यः अत्यन्तविलक्षणः आभ्यां परमात्मा इति परमश्च असौ देहाद्यविद्याकृतात्मभ्यः, आत्मा सर्वभूतानां प्रत्यक्चेतनः, इत्यतः परमात्मा इति उदाहृतः उक्तः वेदान्तेषु एव विशिष्यते यः लोकत्रयं भूर्भुवःस्वराख्यं स्वकीयया चैतन्यबलशक्त्या आविश्य प्रविश्य बिभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयति ; अव्ययः अस्य व्ययः विद्यते इति अव्ययःकः ? ईश्वरः सर्वज्ञः नारायणाख्यः ईशनशीलः ॥ १७ ॥

जडवर्गस्य अन्यत्वकृतं स्वातन्त्र्यं निरस्यति -

स एवेति ।

लोकत्रयं इति उपलक्षणम् , सर्वं जगदपि विवक्षितम् । चैतन्यमेव बलं तत्र - शक्तिः - माया  तयेति यावत् ।

जगद्धारणे परस्य व्यापारान्तरं वारयति -

स्वरूपेति ।

न च अस्य अन्यो धारयिता, स्वतः अचलत्वात् इत्याह -

अव्यय इति ।

“संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः“ इति श्रुत्यर्थं गृहीत्वा आह -

ईश्वर इति

॥ १७ ॥