मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
पञ्चदशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
यस्मात्क्षरमतीतोऽहमक्षरादपि
चोत्तमः
।
अतोऽस्मि
लोके
वेदे
च
प्रथितः
पुरुषोत्तमः
॥ १८ ॥
यस्मात्
क्षरम्
अतीतः
अहं
संसारमायावृक्षम्
अश्वत्थाख्यम्
अतिक्रान्तः
अहम्
अक्षरादपि
संसारमायारूपवृक्षबीजभूतादपि
च
उत्तमः
उत्कृष्टतमः
ऊर्ध्वतमो
वा
,
अतः
ताभ्यां
क्षराक्षराभ्याम्
उत्तमत्वात्
अस्मि
लोके
वेदे
च
प्रथितः
प्रख्यातः
।
पुरुषोत्तमः
इत्येवं
मां
भक्तजनाः
विदुः
।
कवयः
काव्यादिषु
च
इदं
नाम
निबध्नन्ति
।
पुरुषोत्तम
इत्यनेनाभिधानेनाभिगृणन्ति
॥ १८ ॥
अत इति
;
यस्मादित्यस्य अपेक्षितं निक्षिपति -
अत इति ।
उत्तमः पुरुषः इति वाक्यशेषः
॥ १८ ॥