सर्वस्यां गीतायां शास्त्रशब्दे वक्तव्ये कथमस्मिन् अध्याये तत्प्रयोगः स्यात् इत्याशङ्क्य, आह -
यद्यपीति ।
संनिहितम् अध्यायं स्तोतुमपि कुतः तत्र शास्त्रशब्दः? तदर्थाभावात् । तत्राह -
सर्वो हीति ।
गीताशास्रार्थस्य सर्वस्य अत्र सङ्क्षिप्तत्वादेव केवलं शास्त्रशब्दो न भवति, किन्तु वेदार्थस्यापि सर्वस्य अत्र समाप्तेः युक्तं शास्त्रपदं इत्याह -
नेति ।
तत्र गमकमाह -
यस्तमिति ।
भगवत्तत्त्वज्ञाने कृतकृत्यता इत्येतत् उपपादयति -
विशिष्टेति ।
“नान्यथा“ इत्युक्तं प्रपञ्चयति -
न चेति ।
सत्यपि तत्त्वज्ञाने कर्मणां कर्तव्यत्वात् न कर्तव्यसमाप्तिः इति आशङ्क्याह -
सर्वमिति ।
तत्त्वज्ञाने कृतार्थतेति तत्र मनोरपि संमतिमाह -
एतद्धीति ।
भारतेति सम्बोधनतात्पर्यमाह -
यत इति ।
तदनेन आत्मनो देहाद्यतिरिक्तत्वं चिद्रूपत्वं सर्वात्मत्वं कार्यकारणविनिर्मुक्तत्वेन अप्रपञ्चत्वं तस्य अखण्डैकरसब्रह्मात्मत्वज्ञानात् अशेषपुरुषार्थपरिसमाप्तिरित्युक्तम्
॥ २० ॥
इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने पञ्चदशोऽध्यायः
॥ १५ ॥