श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥
इति एतत् गुह्यतमं गोप्यतमम् , अत्यन्तरहस्यं इत्येतत्किं तत् ? शास्त्रम्यद्यपि गीताख्यं समस्तम्शास्त्रम्उच्यते, तथापि अयमेव अध्यायः इहशास्त्रम्इति उच्यते स्तुत्यर्थं प्रकरणात्सर्वो हि गीताशास्त्रार्थः अस्मिन् अध्याये समासेन उक्तः केवलं गीताशास्त्रार्थ एव, किन्तु सर्वश्च वेदार्थः इह परिसमाप्तःयस्तं वेद वेदवित्’ (भ. गी. १५ । १) वेदैश्च सर्वैरहमेव वेद्यः’ (भ. गी. १५ । १५) इति उक्तम्इदम् उक्तं कथितं मया हे अनघ अपापएतत् शास्त्रं यथादर्शितार्थं बुद्ध्वा बुद्धिमान् स्यात् भवेत् अन्यथा कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन सः कृतकृत्यः ; विशिष्टजन्मप्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्तत्त्वे विदिते कृतं भवेत् इत्यर्थः ; अन्यथा कर्तव्यं परिसमाप्यते कस्यचित् इत्यभिप्रायःसर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (भ. गी. ४ । ३३) इति उक्तम्एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतःप्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा’ (मनु. १२ । ९३) इति मानवं वचनम्यतः एतत् परमार्थतत्त्वं मत्तः श्रुतवान् असि, अतः कृतार्थः त्वं भारत इति ॥ २० ॥

सर्वस्यां गीतायां शास्त्रशब्दे वक्तव्ये कथमस्मिन् अध्याये तत्प्रयोगः स्यात् इत्याशङ्क्य, आह -

यद्यपीति ।

संनिहितम् अध्यायं स्तोतुमपि कुतः तत्र शास्त्रशब्दः? तदर्थाभावात् । तत्राह -

सर्वो हीति ।

गीताशास्रार्थस्य सर्वस्य अत्र सङ्क्षिप्तत्वादेव केवलं शास्त्रशब्दो न भवति, किन्तु वेदार्थस्यापि सर्वस्य अत्र समाप्तेः युक्तं शास्त्रपदं इत्याह -

नेति ।

तत्र गमकमाह -

यस्तमिति ।

 भगवत्तत्त्वज्ञाने कृतकृत्यता इत्येतत् उपपादयति -

विशिष्टेति ।

“नान्यथा“ इत्युक्तं प्रपञ्चयति -

न चेति ।

सत्यपि तत्त्वज्ञाने कर्मणां कर्तव्यत्वात् न कर्तव्यसमाप्तिः इति आशङ्क्याह -

सर्वमिति ।

तत्त्वज्ञाने कृतार्थतेति तत्र मनोरपि संमतिमाह -

एतद्धीति ।

भारतेति सम्बोधनतात्पर्यमाह -

यत इति ।

तदनेन आत्मनो देहाद्यतिरिक्तत्वं चिद्रूपत्वं सर्वात्मत्वं कार्यकारणविनिर्मुक्तत्वेन अप्रपञ्चत्वं तस्य अखण्डैकरसब्रह्मात्मत्वज्ञानात् अशेषपुरुषार्थपरिसमाप्तिरित्युक्तम्

॥ २० ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने पञ्चदशोऽध्यायः

॥ १५ ॥