श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ २ ॥
अहिंसा अहिंसनं प्राणिनां पीडावर्जनम् । सत्यम् अप्रियानृतवर्जितं यथाभूतार्थवचनम् । अक्रोधः परैः आक्रुष्टस्य अभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनम् । त्यागः संन्यासः, पूर्वं दानस्य उक्तत्वात् । शान्तिः अन्तःकरणस्य उपशमः । अपैशुनं अपिशुनता ; परस्मै पररन्ध्रप्रकटीकरणं पैशुनम् , तदभावः अपैशुनम् । दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्वम् इन्द्रियाणां विषयसंनिधौ अविक्रिया । मार्दवं मृदुता अक्रौर्यम् । ह्रीः लज्जा । अचापलम् असति प्रयोजने वाक्पाणिपादादीनाम् अव्यापारयितृत्वम् ॥ २ ॥

त्यागशब्देन दानं कस्मात् न उच्यते ? तत्र आह -

पूर्वमिति ।

लज्जा - अकार्यनिवृत्तिहेतुगर्हानिमित्ता मनोवृत्तिः

॥ २ ॥