तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३ ॥
तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमा आक्रुष्टस्य ताडितस्य वा अन्तर्विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायाम् उपशमनम् अक्रोधः इति अवोचाम । इत्थं क्षमायाः अक्रोधस्य च विशेषः । धृतिः देहेन्द्रियेषु अवसादं प्राप्तेषु तस्य प्रतिषेधकः अन्तःकरणवृत्तिविशेषः, येन उत्तम्भितानि करणानि देहश्च न अवसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यम् आभ्यन्तरं च मनोबुद्ध्योः नैर्मल्यं मायारागादिकालुष्याभावः ; एवं द्विविधं शौचम् । अद्रोहः परजिघांसाभावः अहिंसनम् । नातिमानिता अत्यर्थं मानः अतिमानः, सः यस्य विद्यते सः अतिमानी, तद्भावः अतिमानिता, तदभावः नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थः । भवन्ति अभयादीनि एतदन्तानि सम्पदं अभिजातस्य । किंविशिष्टां सम्पदम् ? दैवीं देवानां या सम्पत् ताम् अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्य इत्यर्थः, हे भारत ॥ ३ ॥