श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ४ ॥
दम्भः धर्मध्वजित्वम् । दर्पः विद्याधनस्वजनादिनिमित्तः उत्सेकः । अतिमानः पूर्वोक्तः । क्रोधश्च । पारुष्यमेव च परुषवचनम् — यथा काणम् ‘चक्षुष्मान्’ विरूपम् ‘रूपवान्’ हीनाभिजनम् ‘उत्तमाभिजनः’ इत्यादि । अज्ञानं च अविवेकज्ञानं कर्तव्याकर्तव्यादिविषयमिथ्याप्रत्ययः । अभिजातस्य पार्थ । किम् अभिजातस्येति, आह — सम्पदम् आसुरीम् असुराणां सम्पत् आसुरी ताम् अभिजातस्य इत्यर्थः ॥ ४ ॥

उत्सेकः - मदः महदवधीरणाहेतुः । आत्मनि उत्कृष्टत्वाध्यारोपः अतिमानः । क्रोधस्तु कोपापरपर्यायः स्वपरापकारप्रवृत्तिहेतुः नेत्रादिविकारलिङ्गः अन्तःकरणवृत्तिविशेषः । परुषः निष्ठुरः प्रत्यक्षरूक्षवाक् , तस्य भावः पारुष्यम् । तत् उदाहरति -

यथेति ।

तां अभिजातस्य दम्भादीनि अज्ञानान्तानि भवन्ति इति अनुषज्यते

॥ ४ ॥