श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥
द्वौ द्विसङ्ख्याकौ भूतसर्गौ भूतानां मनुष्याणां सर्गौ सृष्टी भूतसर्गौ सृज्येतेति सर्गौ भूतान्येव सृज्यमानानि दैवासुरसम्पद्द्वययुक्तानि इति द्वौ भूतसर्गौ इति उच्यते, द्वया वै प्राजापत्या देवाश्चासुराश्च’ (बृ. उ. १ । ३ । १) इति श्रुतेःलोके अस्मिन् , संसारे इत्यर्थः, सर्वेषां द्वैविध्योपपत्तेःकौ तौ भूतसर्गौ इति, उच्यतेप्रकृतावेव दैव आसुर एव उक्तयोरेव पुनः अनुवादे प्रयोजनम् आहदैवः भूतसर्गः अभयं सत्त्वसंशुद्धिः’ (भ. गी. १६ । १) इत्यादिना विस्तरशः विस्तरप्रकारैः प्रोक्तः कथितः, तु आसुरः विस्तरशः ; अतः तत्परिवर्जनार्थम् आसुरं पार्थ, मे मम वचनात् उच्यमानं विस्तरशः शृणु अवधारय ॥ ६ ॥

निर्दयानां रक्षसां सम्पत् तृतीया अस्ति, सा कस्मात् न उक्ता इति आशङ्क्य आसुर्यां अन्तर्भावात् इत्याह -

द्वाविति ।

भूतानां द्वैविध्ये मानत्वेन उदूगीथब्राह्मणम् उदाहरति -

द्वया हेति ।

सम्पद्द्वययुतेभ्यः अतिरिक्तानां अपि प्राणिभेदानां सम्भवात् कुतः भूतानां द्वित्वनियतिः ? इति आशङ्क्य आह -

सर्वेषामिति

॥ ६ ॥