श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रवृत्तिं निवृत्तिं जना विदुरासुराः
शौचं नापि चाचारो सत्यं तेषु विद्यते ॥ ७ ॥
प्रवृत्तिं प्रवर्तनं यस्मिन् पुरुषार्थसाधने कर्तव्ये प्रवृत्तिः ताम् , निवृत्तिं एतद्विपरीतां यस्मात् अनर्थहेतोः निवर्तितव्यं सा निवृत्तिः तां , जनाः आसुराः विदुः जानन्ति केवलं प्रवृत्तिनिवृत्ती एव ते विदुः, शौचं नापि आचारः सत्यं तेषु विद्यते ; अशौचाः अनाचाराः मायाविनः अनृतवादिनो हि आसुराः ॥ ७ ॥

वर्जनीयां आसुरीं सम्पदं विवृणोति -

प्रवृत्तिं चेति ।

तां विहितां प्रवृत्तिं न जानन्ति इत्यर्थः । तां च निषिद्धां क्रियां न जानन्ति इति सम्बन्धः ।

न शौचम् इत्यादेः तात्पर्यं आह -

अनाचारा इति ।

शौचसत्ययोः आचारान्तर्भावेऽपि बाह्मणपरिव्राजकन्यायेन पृथक् उपादानम्

॥ ७ ॥