श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अध्यायपरिसमाप्तेः आसुरी सम्पत् प्राणिविशेषणत्वेन प्रदर्श्यते, प्रत्यक्षीकरणेन शक्यते तस्याः परिवर्जनं कर्तुमिति

ननु अध्यायशेषेण आसुरसम्पद्दर्शनं अयुक्तं, तस्याः त्याज्यत्वेनपङ्कप्रक्षालनन्यायावतारात् इति आशङ्क्य आह -

प्रत्यक्षीकरणेनेति ।