असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ ८ ॥
असत्यं यथा वयम् अनृतप्रायाः तथा इदं जगत् सर्वम् असत्यम् , अप्रतिष्ठं च न अस्य धर्माधर्मौ प्रतिष्ठा अतः अप्रतिष्ठं च, इति ते आसुराः जनाः जगत् आहुः, अनीश्वरम् न च धर्माधर्मसव्यपेक्षकः अस्य शासिता ईश्वरः विद्यते इति अतः अनीश्वरं जगत् आहुः । किञ्च, अपरस्परसम्भूतं कामप्रयुक्तयोः स्त्रीपुरुषयोः अन्योन्यसंयोगात् जगत् सर्वं सम्भूतम् । किमन्यत् कामहैतुकं कामहेतुकमेव कामहैतुकम् । किमन्यत् जगतः कारणम् ? न किञ्चित् अदृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगतः ‘काम एव प्राणिनां कारणम्’ इति लोकायतिकदृष्टिः इयम् ॥ ८ ॥