श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
चिन्तामपरिमेयां प्रलयान्तामुपाश्रिताः
कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥
चिन्ताम् अपरिमेयां च, न परिमातुं शक्यते यस्याः चिन्तायाः इयत्ता सा अपरिमेया, ताम् अपरिमेयाम् , प्रलयान्तां मरणान्ताम् उपाश्रिताः, सदा चिन्तापराः इत्यर्थः । कामोपभोगपरमाः, काम्यन्ते इति कामाः विषयाः शब्दादयः तदुपभोगपरमाः ‘अयमेव परमः पुरुषार्थः यः कामोपभोगः’ इत्येवं निश्चितात्मानः, एतावत् इति निश्चिताः ॥ ११ ॥

एषः कामोपभोगः परं अयनं सुखस्य इति एतावत् , पारत्रिकं तु नास्ति सुखं इति निश्चयवन्तः इत्याह -

एतावदिति

॥ ११ ॥