श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १२ ॥
आशापाशशतैः आशा एव पाशाः तच्छतैः बद्धाः नियन्त्रिताः सन्तः सर्वतः आकृष्यमाणाः, कामक्रोधपरायणाः कामक्रोधौ परम् अयनम् आश्रयः येषां ते कामक्रोधपरायणाः, ईहन्ते चेष्टन्ते कामभोगार्थं कामभोगप्रयोजनाय धर्मार्थम् , अन्यायेन परस्वापहरणादिना इत्यर्थः ; किम् ? अर्थसञ्चयान् अर्थप्रचयान् ॥ १२ ॥

आसुरानेव पुनः विशिनष्टि -

आशेति ।

अशक्योपायार्थविषयाः अनवगतोपायार्थविषयाः वा प्रार्थनाः आशाः, ताः पाशः इव पाशाः, तेषां शतैः बद्धाः इव, श्रेयसः प्रच्याव्य इतः ततः नीयमानाः इत्याह -

आशा एवेति

॥ १२ ॥