श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम्
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥
ईदृशश्च तेषाम् अभिप्रायः —

तेषां अभिप्रायोऽपि विवेकविरोधी इत्याह -

ईदृशश्चेति ।

द्रव्यं गोहिरण्यादि । इदं - अन्यत् बुद्धौ प्रार्थ्यमानत्वेन विपरिवर्तमानं इति एतत्

॥ १३ ॥