श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
असौ मया हतः शत्रुर्हनिष्ये चापरानपि
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥
असौ देवदत्तनामा मया हतः दुर्जयः शत्रुःहनिष्ये अपरान् अन्यान् वराकान् अपिकिम् एते करिष्यन्ति तपस्विनः ; सर्वथापि नास्ति मत्तुल्यःकथम् ? ईश्वरः अहम् , अहं भोगीसर्वप्रकारेण सिद्धः अहं सम्पन्नः पुत्रैः नप्तृभिः, केवलं मानुषः, बलवान् सुखी अहमेव ; अन्ये तु भूमिभारायावतीर्णाः ॥ १४ ॥

यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुः अपि न सम्भवति इत्याह -

असाविति ।

त्वत्तो विहीनानां त्वया परिभवेऽपि, त्वत्तुल्यानां शत्रूणां परिभवो निश्चितो न भवति इति आशङ्क्य आह -

सर्वथेति ।

ऐश्वर्यातिरेकेऽपि कुतः तेषां भोगसामर्थ्यम् इति आशङ्क्य आह -

अहमिति ।

सिद्धत्वमेव स्फुटयति -

सम्पन्न इति ।

बलवान् - ओजस्वी । सुखी - रोगरहितः

॥ १४ ॥